Question
Download Solution PDFComprehension
निर्देशः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चिनुत।
स्वातन्त्र्यसङ्ग्रामस्य कालः। महात्मा गांधी देशे सर्वत्र सञ्चरन् जनेषु देशभक्तिं जागरयति स्म। देशार्थं यथाशक्तिधनं समर्पणीयम् इति जनान् बोधयति स्म च। तेन प्रभाविताः धनिकाः यथा, तथैव निर्धनाः अपि राष्ट्राय धनं समर्पयन्ति स्म। कदाचिद् ठक्करबापा, गोपबन्धु दासः इत्यादिभिः सह गांधिवर्यः ओडिशाराज्ये प्रवासं कुर्वन् आसीत्। कश्मिंश्चित् लघुरेल्वेस्थानके ते सर्वे यानस्य आगमनं प्रतीक्षमाणाः उपविष्टवन्तः आसन्। अत्रान्तरे कश्चित् वनवासी वृद्धः तत्र आगतवान्। गान्धिवर्यं दृष्ट्वा समीपम् आगत्य श्रद्ध्या चरणस्पर्श पूर्वकं नमस्कारं कृतवान्। सः केवल-कौपीनधारी आसीत्। नितरां कृशश्च आसीत्। तदीय शरीरस्य दुर्बलता एव बोधयति स्म यत् सः नितरां निर्धनः इति। गान्धिवर्यः अन्ये च तस्य व्यवहारं आश्चर्येण पश्यन्तः आसन्।
स वनवासी वृद्धः कटिवस्त्रेण बद्धं पैसामूल्यकं नाणकं निष्कास्य गांधिवर्यस्य पादतले समर्पितवान्। राष्ट्रार्थं सर्वे यथाशक्ति धनं समर्पयन्ति। तेन राष्ट्रकार्ये साहाय्यं भवति। किन्तु एतेन वृद्धेन पैसा मूल्यकं नाणकं समर्प्यमाणम् अस्ति। एतत् नाणकं नितरां अत्यल्पम्। गान्धिवर्यः आश्चर्यम् अनुभवन् पृष्टवान् – “एतत् नाणकं किमर्थ् अत्र स्थापितवान् भवान्"? इति तदा सः निर्धनः वनवासी वृद्धः उक्तवान्- "आर्य! भवान् तु राष्ट्रदेवः। देवदर्शनार्थं यदा वयं गच्छामः तदा देवाय किम समर्पयामः खलु? मया अपि यथाशक्ति समर्पितम्" इति एतत् दृष्ट्वा सन्तुष्टान्तरङ्ग: गांधिवर्यः पार्श्वस्थं गोपबन्धुदासवर्यम् उक्तवान्- “दृष्टं खलु सर्व अपि एतत् एव भारतस्य अन्तरङ्गं नाम। अत्र निर्धनः अकिञ्चनः अपि भावयति यत् यथाशक्ति समर्पणं मम धर्मः इति। एतस्य शरीरं दुर्बलं स्यात्, शक्तिः कुण्ठिता स्यात्, किन्तु आत्माप्रबलः अस्ति। एतादृशा एव भारतस्य प्रतिनिधयः।
'नितराम्' इति कथविधं पदम्?
Answer (Detailed Solution Below)
Detailed Solution
Download Solution PDFस्पष्टीकरण -
गद्यांश -
- एतत् नाणकं नितरां अत्यल्पम्।
- यह सिक्के हमेशा से बहुत कम है।
- यहां वाक्य में सिक्के की विशेषता बतालाई जा रही है।
अत: इस प्रकार यहां 'नितरां' पद विशेषण पद है।
Key Pointsअन्य विकल्प -
1.क्रिया -
- जिन शब्दों से किसी कार्य का करना या होना व्यक्त हो, उन्हें क्रिया कहते है।
- जैसे- रोया, खा रहा, जायेगा आदि।
- क्रिया के दो भेद होते है - (क) अकर्मक क्रिया (ख) सकर्मक क्रिया
- अकर्मक क्रिया - जिस क्रिया का असर ‘कर्ता’ पर ही पड़ता है और उस वाक्य में ‘कर्म’ नहीं हो।
- सकर्मक क्रिया- जिस क्रिया का असर कर्ता पर नहीं बल्कि ‘कर्म’ पर पड़ता है।
2.सर्वनाम -
- जिन शब्दों का प्रयोग नाम (संज्ञा) के साथ विशेषण के रूप में किया जाता है।
- इन सर्वनामों की संख्या लगभग चौंतीस है।
- संज्ञा (नाम) का प्रयोग बार - बार न करना पडे, इसलिये सर्वनाम का प्रयोग लिया जाता है।
3.क्रियाविशेषणम् -
- जिन शब्दों से क्रिया की विशेषता का पता चलता है
- प्रकार - स्थानवाचक, कालवाचक, परिमाणवाचक और रीतिवाचक
Additional Informationविशेषण -
- संज्ञा व सर्वनाम शब्द की विशेषता बताने वाले शब्द को विशेषण कहते हैं । जैसे -
- उन्नत: वृक्ष: अस्ति।
- कक्षायाम् पंचाशत् छात्रा: सन्ति।
- आम्रं मधुरं अस्ति।
- स: बालक: विद्यालयं गच्छति।
- इन वाक्यों में उन्नत:, पंचाशत्, मधुरं, स: ये शब्द वृक्ष:, छात्रा:, आम्रम्, बालक: इन संज्ञा शब्दों की विशेषता बता रहे है।
- अत: उन्नत:, पंचाशत्, मधुरं, स: ये सब विशेषण है।
Last updated on Apr 30, 2025
-> The CTET 2025 Notification (July) is expected to be released anytime soon.
-> The CTET Exam Date 2025 will also be released along with the notification.
-> CTET Registration Link will be available on ctet.nic.in.
-> CTET is a national-level exam conducted by the CBSE to determine the eligibility of prospective teachers.
-> Candidates can appear for CTET Paper I for teaching posts of classes 1-5, while they can appear for CTET Paper 2 for teaching posts of classes 6-8.
-> Prepare for the exam with CTET Previous Year Papers and CTET Test Series for Papers I &II.